Skip to main content
  • 1 year ago
Satyanarayana Ashtakam | सत्यनारायण अष्टकम् स्तोत्र | समस्त मनोकामनाओं की पूर्ति हेतु अवश्य पाठ करें

#narayan #नारायण #सत्यनारायण #satyanarayan #सत्यनारायणाष्टकम्

श्रीसत्यनारायण अष्टकम्

आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शङ्करम् ।
सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशम्भजे ॥१॥

सर्वदा लोककल्याणपारायणं देवगोविप्ररक्षार्थसद्विग्रहम्।
दीनहीनात्मभक्ताश्रयं सुन्दरं सत्यनारायणं विष्णुमीशम्भजे ॥२॥

दक्षिणे यस्य गङ्गा शुभा शोभते राजते सा रमा यस्य वामे सदा ।
यः प्रसन्नाननो भाति भव्यश्च तं सत्यनारायणं विष्णुमीशम्भजे ॥३॥

सङ्कटे सङ्गरे यं जनः सर्वदा स्वात्मभीनाशनाय स्मरेत् पीडितः ।
पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं सत्यनारायणं विष्णुमीशम्भजे ॥४॥

वाञ्छितं दुर्लभं यो ददाति प्रभुः साधवे स्वात्मभक्ताय भक्तिप्रियः।
सर्वभूताश्रयं तं हि विश्वम्भरं सत्यनारायणं विष्णुमीशम्भजे ॥५॥

ब्राह्मणः साधुवैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुताः भक्त्यामराः ।
लीलया यस्य विश्वं ततं तं विभुं सत्यनारायणं विष्णुमीशम्भजे ॥६॥

येन चाब्रह्मबालतृणं धार्यते सृज्यते पाल्यते सर्वमेतज्जगत् ।
भक्तभावप्रियं श्रीदयासागरं सत्यनारायणं विष्णुमीशम्भजे ॥७॥

सर्वकामप्रदं सर्वदा सत्प्रियं वन्दितं देववृन्दैर्मुनीन्द्रार्चितम्।
पुत्रपौत्रादिसर्वेष्टदं शाश्वतं सत्यनारायणं विष्णुमीशम्भजे ॥८॥

अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत्
तस्य नश्यन्ति पापानि तेनाग्निना इन्धनानीव शुष्काणि सर्वाणि वै ॥९॥

॥ श्रीसत्यनारायणाष्टकं सम्पूर्णम् ॥

Category

📚
Learning
Comments

Recommended