श्री दत्तस्तवस्तोत्र | Shri Datta Stavam Stotram With Lyrics | Datta Jayanti 2021 | Rajshri Soul

  • 2 years ago
Listen Shri Datta Stavam Stotram With Lyrics | श्री दत्तस्तवस्तोत्र | Popular Devotional Songs

Lyrics : श्रीदत्तस्तवस्तोत्रम्

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ।
दूरादेव पलायन्ते दत्तात्रेयं नमामि तम् ॥ १॥

यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति ।
भीतिग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम् ॥ २॥

दद्गुस्फोटककुष्ठादि महामारी विषूचिका ।
नश्यन्त्यन्येऽपि रोगाश्च दत्तात्रेयं नमामि तम् ॥ ३॥

सङ्गजा देशकालोत्था अपि साङ्क्रमिका गदाः ।
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तम् ॥ ४॥

सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम् ।
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् ॥ ५॥

त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ।
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् ॥ ६॥

वैर्यादिकृतमन्त्रादिप्रयोगा यस्य कीर्तनात् ।
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तम् ॥ ७॥

यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ।
य ईशः सर्वतस्त्राता दत्तात्रेयं नमामि तम् ॥ ८॥

जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत् ॥ ९॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं सम्पूर्णम् ।

Recommended